Posts

Showing posts from April, 2024

Shri Raghavendratirtha Kruta Sri Ramacharitramanjari 3

श्लोकः    कैकेयीप्रीतिहेतोस्ससहजनृपजो वल्कली यानरण्यम् | गङ्गातारी गुहार्च्यः कृतरुचिरजटो गीष्पतेः पुत्रमान्यः || तीर्त्वा कृष्णां प्रयातोऽवतु निजममलं चित्रकूटं प्रपन्नं | स्वाम्बाभिर्भ्रातरं तं श्रुतजनकगतिस्सान्त्वयन्व्युप्ततीर्थः || 3 || पदच्छेदः  कैकेयीप्रीतिहेतोः ससहजनृपजः वल्कली यान् अरण्यं गङ्गातारी गुहार्च्यः कृतरुचिरजटः गीष्पतेः पुत्रमान्यः तीर्त्वा कृष्णां प्रयातः अवतु निजं अमलं चित्रकूटम् प्रपन्नं स्वाम्बाभिः भ्रातरं तं श्रुतजनकगतिः सान्त्वयन्  व्युप्ततीर्थः | अन्वयः  कैकेयीप्रीतिहेतोः ससहजनृपजः वल्कली अरण्यं यान् गङ्गातारी गुहार्च्यः कृतरुचिरजटः गीष्पतेः पुत्रमान्यः कृष्णां तीर्त्वा निजं अमलं चित्रकूटम् प्रयातः तं प्रपन्नं स्वाम्बाभिः भ्रातरं सान्त्वयन् श्रुतजनकगतिः व्युप्ततीर्थः (मां ) अवतु | ಅನ್ವಯಾರ್ಥ  ಯಾವ ರಾಮನು  ಕೈಕೇಯಿದೇವಿಯ ಪ್ರೀತಿಗೋಸ್ಕರ ಸಹಜನಾದ ಲಕ್ಷ್ಮಣ ಮತ್ತು ನೃಪಜಳಾದ ಸೀತೆಯಿಂದ ಕೂಡಿಕೊಂಡು ನಾರು ವಸ್ತ್ರವನ್ನು ಉಟ್ಟುಕೊಂಡು ಅರಣ್ಯಕ್ಕೆ ಹೋದನೋ, ಯಾರು ಅವರ ಜೊತೆ ಗಂಗೆಯನ್ನು ದಾಟಿ ನಾವಿಕನಾದ ಗುಹನಿಂದ ಪೂಜಿಸಲ್ಪಟ್ಟನೋ, ಯಾರು ಮನೋಹರವಾದ ಜಟೆಯನ್ನು ಧರಿಸಿರುವನೋ, ಯಾರು ಗೀಷ್ಪತಿಯಾದ ...

Shri Raghavendratirtha Kruta Sri Ramacharitramanjari 2

श्लोकः  आयन् रामस्सभार्योऽध्वनि निजसहजैर्भार्गवेश्वासरोपात् | तद्गं हत्वा सुरारिं पुरग उत नुतस्तापसैर्भूपपृष्टैः  || कल्याणानंतधर्मोऽगुणलवरहितः प्राणिनामन्तरात्मे  त्याद्युक्तश्चाभिषेके पुरजनमहितो मह्यताम् मे वचोभिः || 2 || पदच्छेदः  आयन् रामः सभार्यः अध्वनि निजसहजैः भार्गवेष्वासरोपात् तद्गं हत्वा सुरारिं पुरगः उत नुतः तापसैः भूपपृष्टैः कल्याणानंतधर्मः अगुणलवरहितः प्राणिनामन्तरात्मा इति आदि उक्तः च अभिषेके पुरजनमहितः मह्यताम् मे वचोभिः | अन्वयः  यः सभार्यः सीतायाः सहितः  निजसहजैः सह आयन् , यः अध्वनि मार्गे भार्गवेष्वासरोपात् तद्गं सुरारिं हत्वा पुरगः, उत यः अभिषेके भूपपृष्टैः तापसैः वसिष्टादिभिः कल्याणानंतधर्मः अगुणलवरहितः प्राणिनामन्तरात्मा इति आदि उक्तः नुतः च, यः पुरजनमहितः, सः मे वचोभिः मह्यताम् | ಅನ್ವಯಾರ್ಥ ಯಾವ ರಾಮನು ತನ್ನ ಪತ್ನಿ ಸೀತಾ ಸಹಿತನಾಗಿ ಮತ್ತು ತನ್ನ ಬಂಧುಗಳು ಮತ್ತು ತಮ್ಮಂದಿರ ಜೊತೆ ಅಯೋಧ್ಯೆಗೆ ಹೊರಟನೋ, ಯಾರು ದಾರಿಯಲ್ಲಿ ಭಾರ್ಗವ ಪರಶುರಾಮನ ಬಿಲ್ಲು ಅದ ಇಷ್ವಾಸುವಿನ ಹೆದೆಯನ್ನು ಸರಳವಾಗಿ ಎಳೆದು ಪರಶುರಾಮನಲ್ಲಿ ಇರುವ ಸುರಗಳ ಶತ್ರುವಾದ ತಪೋಮಯನೆಂಬ ರಾಕ್ಷಸನನ್ನು ಕೊಂದು ಅಯೋಧ್ಯಾ ಪುರಕ್ಕೆ ಹೋದನೋ...

Shri Raghavendratirtha Kruta Sri Ramacharitramanjari 1

श्लोक:  श्रीमान्पूर्वम् प्रजातो दशरथनृपते रामनामाऽथ नीतो  विश्वामित्रेण मंत्राहृतनुजसहितस्ताटकाम्   घातकोऽस्त्रं | ब्रह्माद्यं प्राप्य हत्वा निशि चरनिकरं यज्ञपालो विमोच्या  हल्याशापं च भङ्क्त्वा शिवधनुरुपयन् जानकीं नः प्रसीदेत् || 1 || पदच्छेदः  श्रीमान् पूर्वं प्रजातः दशरथनृपतेः रामनामा अथ नीतः विश्वामित्रेण मंत्राहृत्  अनुजसहितः ताटकां घातकः अस्त्रं ब्रह्माद्यं प्राप्य हत्वा निषिचारनिकरं निशिचरनिकरम् यज्ञपालः विमोच्य अहल्याशापम् च भङ्क्त्वा शिवधनुः उपनयन् जानकीं नः प्रसीदेत्  | अन्वयः पूर्वं यः श्रीमान्  दशरथनृपतेः रामनामा (इति) प्रजातः, अथ य: अनुजसहितः विश्वामित्रेण नीतः (विश्वामित्रेण) मंत्राहृत् ताटकां घातकः, यः ब्रह्माद्यं अस्त्रं प्राप्य निशिचरनिकरम् हत्वा यज्ञपालः, यः अहल्याशापम् विमोच्य, शिवधनुः भङ्क्त्वा यः जानकीं उपनयन् सः नः प्रसीदेत् | ಅನ್ವಯಾರ್ಥ  ಹಿಂದೆ ಯಾವ ಶ್ರೀಮಾನ್, ಜ್ಞಾನಾದಿ ಸಂಪತ್ ಉಳ್ಳವ, ನೃಪತಿ ರಾಜಾ ದಶರಥನಿಂದ ಮತ್ತು ಕೌಶಲ್ಯೆ ಇಂದ ರಾಮ ಎಂಬ ಹೆಸರಿನಿಂದ ಪ್ರಾದುರ್ಭುತನಾದನೋ, ಯಾರು ವಿಶ್ವಾಮಿತ್ರನಿಂದ ಅನುಜ ಲಕ್ಷ್ಮಣನ ಸಹಿತ ಯಜ್ಞ ರಕ್ಷಣೆಗಾಗಿ ಸಿದ್...