Shri Raghavendratirtha Kruta Sri Ramacharitramanjari 4
श्लोक: दत्वाऽस्मै पादुके स्वे क्षितिभरणकृतौ प्रेष्य तं काकनेत्रम् | व्यस्याराध्योऽत्रिनाम्ना वनमथसमितो दण्डकं तापसेष्टं || कुर्वन्हत्वा विराधं खलकुलदमनं याचितस्तापसाग्रैः | तेषां दत्वाऽभयं स्वानसिधनुरिषुधीन्यानगस्त्यात्स पायात् || 4 || पदच्छेद : दत्वा अस्मै पादुके स्वे क्षितिभरणकृतौ प्रेष्य तं काकनेत्रं व्यस्य आराध्यः अत्रिनाम्ना वनं अथ समितः दण्डकं तापसेष्टं कुर्वन् हत्वा विराधं खलकुलदमनं याचितः तापसाग्रैः तेषां दत्वा अभयं स्वान् असिधनुरिषुधीन् यान् अगस्त्यात् सः पायात् | अन्वय: यः रामः क्षितिभरणकृतौ स्वे पादुके अस्मै (भरताय) दत्वा, तं (भरतं) प्रेष्य, काकनेत्रं व्यस्य, अथ अत्रिनाम्ना यः आराध्यः, दण्डकं समितः, तापसेष्टं कुर्वन्, विराधं हत्वा, यः तापसाग्रैः खलकुलदमनं याचितः तेषां अभयं दत्वा, यः स्वान् असिधनुरिषुधीन् अगस्त्यात् यान् सः रामः पायात् | ಅನ್ವಯಾರ್ಥ: ಯಾವ ರಾಮನು ಕ್ಷಿತಿ ಭೂಮಿಯ ಭರಣಕ್ಕೋಸ್ಕರ ತನ್ನ ಪಾದುಕೆಗಳನ್ನು ತನ್ನವನಾದ ಭರತನಿಗೆ ಕೊಟ್ಟು ಅವನನ್ನು ತಾಯಿಗಳ ಜೊತೆಗೆ ಅಯೋಧ್ಯೆಗೆ ಕಳುಹಿಸಿ, ಕಾಗೆಯ ನೇತ್ರದಲ್ಲಿ ವಾಸಿಸುತ್ತಿರುವ ಅಸುರನನ್ನು ಸಂಹರಿಸಿದನೋ, ಚಿತ್ರಕೂಟವಾಸದ ನಂತರ ಯಾರು ಅತ್ರಿ ಋಷಿಯಿಂದ ...